About me / परिचयः

I am a Senior Research Fellow in Uncertainty Quantification in the SEAVEA project in the Department of Statistical Science at University College London (UCL). I am focused mainly on multi-physics problems and the propagation of uncertainties when coupled models are emulated.

Before my appointment here, I worked at Brunel University London as a part of the same SEAVEA and STAMINA projects and co-developed the FACS model for infectious diseases and the FabSim3 automation toolkit for complex simulation tasks. I have also worked at the University of South Florida in Tampa, Florida on creating a digital twin for infectious disease modeling in cities, and at the University of Sheffield on analyzing swarm dynamics and collective behavior models.

During my PhD and undergraduate days, I have worked on various aspects of complex dynamical systems such as extreme events, synchronization, routes to chaos in discrete maps, and coupled networks.


लण्डननगरे स्थितस्य University College London (UCL) इत्याख्यस्य विश्वविद्यालयस्य साङ्ख्यिकीयशास्त्रविभागे SEAVEA इति परियोजनायां वरिष्ठशोधकर्ताऽहम् । बहुभौतिकीयसङ्गणकप्रतिकृतीनाम् अनुकरणविधयः, तेषाम् अनिश्चिततापरिसङ्ख्यानं तथा च तेषां युग्मशः सम्बद्धानां प्रतिकृतीनां मध्ये अनिश्चितताप्रसारः मम मुख्यशोधविषयाः ॥

इतः पूर्वं तस्यामेव SEAVEA इति परियोजनायां तथा च STAMINA इति परियोजनायां शोधकर्तृरूपेण Brunel University London इति विश्वविद्यालयेन सह सम्बद्ध आसम् । तत्राहं कोविड्-प्रभृतीनां सङ्क्रामकरोगाणां विस्तारविषये पूर्वकथनार्थं FACS इति प्रतिकृतिम्, अपि च जटिलप्रतिरूपकार्यान् सरलरीत्या साधयितुं FabSim3 इति स्वचालनतन्त्रं विकसितवान् । संयुक्तराज्यस्य फ्लोरिडाराज्यस्थे University of South Florida इति विश्वविद्यालयेऽपि सङ्क्रामकरोगप्रसारशोधार्थं कृत्रिमनगरयुगलविकासे रतोऽहमासम् । इतोऽप्याग्रे University of Sheffield इति विश्वविद्यालये समग्रवृत्तिप्रतिकृतिभिः सङ्घगतिविज्ञानविषयम् अधीतवान् ॥

भौतिकशास्त्रस्य छात्रकालेऽपि चरमविरलघटनाः, गतिसमकालयनम्, असन्ततनियोगेषु सङ्कुलगतिमार्गाः, सम्बद्धजालकृतिषु गतिशास्त्रविषयाः च मम प्रमुखाध्ययनक्षेत्राणि आसन् ॥